संस्कृत-शब्दकोशः

भारवाह् भारवृक्ष

भारवि

वाचस्पत्यम्

भारवि ||‍ पु० किरातार्जुनीयकाव्यकारके १ कविभेदे । “तावद्भा भारवेर्भाति यावन्माघस्य नोदयः । उदिते च पुनर्माघे भारवेर्भा रवेरिव” उद्भटः । तत्कृते २ काव्ये च “उपमा कालिदासस्य भारवेरर्थगौरवम्” उद्भटः ।


शब्दकल्पद्रुमः

भारविः || पुं, कविविशेषः । स च किरातार्ज्जुनीय- नामकग्रन्थकर्त्ता । तत्पर्य्यायः । शतपुष्पः २ । इति त्रिकाण्डशेषः ॥ तस्य ग्रन्थस्य प्रथम- श्लोकोऽयम् । “श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्बैतवने वनेचरः ॥”



Correction: