वाचस्पत्यम्
भाल || न० भा—लच् । १ ललाटे भ्रुवोरूर्ध्वभागे २ तमसि मेदि० ।
शब्दकल्पद्रुमः
भालं || क्ली (भाल दीप्तौ + भावे क्विप् । भां लाति गृह्णातीति । ला + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
भ्रुवोरूर्द्ध्वभागः । कपाल इति भाषा । तत्पर्य्यायः । ललाटम् २ अलिकम् ३ गोधि ४ । इति राजनिर्घण्टः ॥ (यथा, साहित्यदर्पणे ३ परिच्छेदे । “स्वामिन् भङ्गुरयालकं सतिलकं भालं विला- सिन् कुरु प्राणेश ! त्रुटितं पयोधरतटे हारं पुन- र्योजय ॥”)
तेजः । इति मेदिनी । ले, ४२ ॥