वाचस्पत्यम्
भालूक is an alternate of भालुक. भालु(लू)क || पुंस्त्री० चु० भल—अवरोधे उक ऊक वा । स्वना- मख्याते पशुभेदे अमरः पाठान्तरम् । स्त्रियां जाति- त्वात् ङीष् ।
शब्दकल्पद्रुमः
भालूकः || पुं, (भलते हिनस्ति जीवानिति । भल + “ऊलूकादयश्च ।” उणा० । ४ । ४१ । इति ऊकः । ततः प्रज्ञाद्यण् ।)
भल्लूकः । यथा, —
“भालूको भालुको भल्लोऽच्छभल्लोऽच्छोऽपि भल्लूकः ॥” इति भरतधृतकोषान्तरम् ॥