वाचस्पत्यम्
भावत || त्रि० भू—शतृ भवन् तस्येदम् अण् । उत्पाद्यमान- सम्बन्धिनि स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
भावतः || त्रि (भवत अयमिति । भवत् + अण् ।) भवदीयः । शत्रन्तभवच्छब्दादण्प्रत्ययनिष्पन्नः । इति सिद्धान्तकौमुदी ॥