संस्कृत-शब्दकोशः

भिक्षु भिक्षुसंघाटी

भिक्षुक

वाचस्पत्यम्

भिक्षुक ||‍ पु० भिक्ष—उक । भिक्षोपजीविनि । “ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः” अत्रिणा पारिभाषिकादर्शिताः । ततः समूहे खण्डिका० ठञ् । भैक्षुक तत्समुदाये न० । क- डारा० कर्म० वा परनिपातः । विप्राभक्षुकः भिक्षुकविप्र इत्यादि ।


शब्दकल्पद्रुमः

भिक्षुकः || पुं, स्त्री, (भिक्षुरेव । भिक्षु + स्वार्थे कन् । यद्बा, भिक्षते इति । भिक्ष + उक ।)
भिक्षोपजीवी । तत्पर्य्यायः । मार्गणः २ याच- नकः ३ वनीयकः ४ याचकः ५ । इति जटाधरः ॥ अर्थी ६ । इत्यमरः ॥ (यथा, मनुः । ३ । २४३ । “ब्राह्मणं भिक्षुकं वापि भोजनार्थमुपस्थितम् । ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥” पारिभाषिकभिक्षुका यथा, अत्रिः । “ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः ॥”)



Correction: