वाचस्पत्यम्
भीषण || पु० भीषयते भी—णिच्—सुक् ल्यु १ भयानकरसे २ कुन्दु- रुके ३ हिन्ताले राजनि० ४ शल्लक्यां ५ महादेवे शब्दरत्ना० ६ कपोते च पु० ७ गाढे ८ दारुणे च त्रि० मेदि० ।
शब्दकल्पद्रुमः
भीषणः || त्रि (भीषयते इति । भी + णिच् + ततो नन्द्यादित्वात् ल्युः । षुगागमश्च ।)
गाढः । दारुणः । इति मेदिनी । णे, ६९ ॥ (यथा, रघौ । १२ । ४० ॥ “पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः । वैरूप्यपौनरुक्तेन भीषणां तामयोजयत् ॥”)
शब्दकल्पद्रुमः
भीषणः || पुं, (भीषयते इति । भी + णिच् + “भियो हेतुभये षुक् ।” ७ । ३ । ४० । इति षुक् । भीषिधातुस्ततो नन्द्यादित्वात् ल्युः ।)
भयानकरसः । इत्यमरटीकायां भरतः, मेदिनी च ॥ कुन्दुरुकः । कपोतः । हिन्तालः । इति राजनिर्घण्टः ॥ शिवः । इति शब्दरत्नावली । शल्लकी इति मेदिनी ॥ (भयोत्पादने क्ली, । यथा, महाभारते । १५ । ७ । ४ । “व्यसनं भेदनञ्चैव शत्रूणां कारयेत्ततः । कर्षणं भीषणञ्चैव युद्धे चैव बलक्षयम् ॥”)