वाचस्पत्यम्
भुक्त || त्रि० भुज—कर्मणि क्त । १ भक्षिते २ कृतभोगे च भुक्तं भोग्यं रवेस्त्यजेत्” नील० ता० । भावे—क्त । ३ भक्षणे न०
शब्दकल्पद्रुमः
भुक्तं || त्रि (भुज् + कर्म्मणि क्तः ।)
भक्षितम् । इत्यमरः । ३ । २ । ११ ॥ (यथा, मनुः । २ । ५५ । “पूजितं ह्यशनं नित्यं बलमूर्ज्जञ्च यच्छति । अपूजितन्तु तद्भुक्तमुभयं नाशयेदिदम् ॥” उपभुक्तम् । यथा, रघुः । ४ । ७ । “मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः । तथाप्यनन्यपूर्ब्बेव तस्मिन्नासीद्वसुन्धरा ॥” भावे क्तः ।)
भक्षणे, क्ली । इति त्रिकाण्डशेषः ॥ (यथा, रामायणे । २ । ५८ । १२ । “आसितं शयितं भुक्तं सूत ! रामस्य कीर्त्तय । जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥”)