वाचस्पत्यम्
भुजङ्गम || पुंस्त्री० भुजः कुटिलीभवन् सन् गच्छति गम—खच् मुम् । १ सर्पे अमरः स्त्रियां जातित्वात् ङीष् । २ सीसके न० राजनि० । ३ अश्लेषानक्षत्रे पु० ।
शब्दकल्पद्रुमः
भुजङ्गमः || पुं, (भुज कौटिल्ये + इगुपधेति कः । भुजः कुटिलीभवन् गच्छतीति । भुज + गम् + “गमेः सुपि बाच्यः ।” ३ । १ । ३८८ । इत्यस्य वार्क्तिकात् खच् । “खच्चडिद्वाच्यः ।” इति डिदभावे टिलोपाभावः ।)
सर्पः । इत्य- मरः । १ । ८ । ६ । (यथा, रघुः । ६ । ७७ । “आरूढमद्रीनुदधीन् वितीर्णं भुजङ्गमानां वसतिं प्रविष्टम् ॥”)
सीसके, क्ली । इति राजनिर्घण्टः ॥