वाचस्पत्यम्
भुजान्तर || न० ६ त० । भ्रजयोरन्तरं मध्यम् । क्रीडे अमरः वृत्तक्षेत्रजबाह्वोर्विश्लेषरूपे गणितागते पदार्थे यथोक्तं सि० शि० “भानोः फलं गणितमर्कयुतस्य राशेर्व्यक्षोदयेन खस्वनागमही १८०० विभक्तम् । गत्या ग्रहस्य गुणितं द्युनिशा विभक्तं स्वर्णं ग्रहेऽर्कवदिदं तु भुजान्तराख्यम्” ।
शब्दकल्पद्रुमः
भुजान्तरं || क्ली (भुजयोरन्तरं मध्यम् ।)
क्रोडम् । इत्यमरः । २ । ६ । ७७ ॥ (वक्षः । यथा, रघुः । ३ । ५४ । “दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः । पपावनास्वादितपूर्ब्बमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥” भुजस्यान्तरं प्रभेदः ।)
हस्तप्रभेदश्च ॥