वाचस्पत्यम्
भूकम्प || पु० ६ त० । लोकानामनिष्टादिसूचके अद्भुतरूपे पृथिव्याः स्वयंचलने । तस्य शुभाशुमसूचकता अद्भुत- सागरे उक्ता यथा “मेषे वृश्चिकभे गजः प्रचलति व्यासादिभिः कथ्यते चापे मीनकुलीरभ च वृषभे सत्यं चलेत् कच्छपः । यूके कुम्भधरे मृगेन्द्रमिथुने कन्यामृगे पन्नगस्तेषामेकतमो यदि प्रचलति क्षौणी तदा कम्पते । कच्छपे मरणं ज्ञेयं मरणञ्चापि पन्नगे । सर्वत्र सुखदञ्चैव पृथिव्यां चलिते गजे । प्रथितनरेश्वर मरणं व्यसनान्याग्नेयमारुतयोः । क्षुद्भयमतिवृष्टि- भिरुपपीड्यन्ते जनाश्चापि । त्रिचतुर्थपञ्चदिने मासे पक्षे त्रिपक्षके । भवति यदा भूकम्पः प्रधाननृपनाशनं कुरुते” । स च भूमिजोत्पातविशेषः यथा “चर- स्थिरभवं भौमं भूकम्पमपि भूमिजम् । जलाशयानां वैकृत्यं भौमन्तदपि कीर्तयेत् । भौमं चाप्यं फलं ज्ञेय चिरेण परिपच्यते” ज्यो० त० ।
शब्दकल्पद्रुमः
भूकम्पः || पुं, (भुवः पृथिव्याः कम्पः ।)
भूमि- कम्पनम् । स च अद्भुतविशेषः । यथा, अद्भुतसागरे । “मेषे वृश्चिकभे गजः प्रचलति व्यासादिभिः कथ्यते चापे मीनकुलीरभे च वृषभे सत्यं चलेत् कच्छपः । यूके कुम्भधरे मृगेन्द्रमिथुने कन्यामृगे पन्नग- स्तेषामेकतमो यदि प्रचलति क्षौणी तदा कम्पते ॥ “कच्छपे मरणं ज्ञेयं मरणञ्चापि पन्नगे । सर्व्वत्र सुखदञ्चैव पृथिव्यां चलिते गजे ॥ प्रथितनरेश्वरमरणं व्यसनान्याग्नेयमारुतयोः । क्षुद्भयमतिवृष्टिभिरुपपीड्यन्ते जनाश्चापि ॥ त्रिचतुर्थपञ्चमदिने मासे पक्षे त्रिपक्षके । भवति यदा भूकम्पः प्रधाननृपनाशनं कुरुते ॥” स च भूमिजोत्पातविशेषः । यथा, —
“चरस्थिरभवं भौमं भूकम्पमपि भूमिजम् । जलाशयानां वैकृत्यं भौमन्तदपि कीर्त्तितम् ॥ भौमं जाप्यफलं ज्ञेयं चिरेण परिपच्यते ।” इति ज्योतिस्तत्त्वम् ॥