वाचस्पत्यम्
भूतजटा || स्त्री भूतस्य पिशाचस्य जदेव । १ जटामांस्ताम् शब्दमा० । २ गन्धमांस्यां राजनि० ।
शब्दकल्पद्रुमः
भूतजटा || स्त्री (भूतस्य जटेव तत्सदृशत्वात् ।)
जटामांसी । इति शब्दमाला ॥ (पर्य्यायो यथा, “जटामांसी भूतजटा जटिला च तपस्विनी ।” इति भावप्रकाशस्य पूर्ब्बस्वण्डे प्रथमे भागे ॥)
गन्धमांसी । इति राजनिर्घण्टः ॥