वाचस्पत्यम्
भूतनाशन || न० भूतान् नाशयति नश—णिच्—ल्यु । १ रुद्राक्षे राजनि० २ सर्षपे पु० ३ भल्लातके च रत्नमा० ।
शब्दकल्पद्रुमः
भूतनाशनं || क्ली (भूतानि प्राणिजातानि नाश्यन्ते अनेनेति । नश + णिच् + ल्युट् ।)
रुद्राक्षम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
भूतनाशनः || पुं, (भूतान् नाशयतीति ॥ नश + णिच् + ल्युः ।)
भल्लातकः । इति रत्नमाला ॥ सर्षपः । इति राजनिर्घण्टः ॥