वाचस्पत्यम्
भूतशुद्धि || स्त्री० भूतानां देहारम्भकपृथिव्यादीनां शुद्धिर्भावना विशेषात् शोधनम् । तन्त्रादौ प्रसिद्धे देहारम्भकचतु- र्विंशतितत्त्वानां भावनाविशेषेण संस्कारेण देवरूपता- सम्पादने । भूतशुद्धिप्रकारस्तन्त्रसारे उक्तो यथा गौतमीये “सुषुम्णावर्त्मना सोऽहमिति मन्त्रेण यो- जयेत् । सहस्रारे शिवे स्थाने परमात्मनि देशिकः । धूम्रवर्णं ततो वायुवीजं(यं) षड्विन्दुलाञ्छितम् । पूरये दिडया वायुं सुधीः षोडशमात्रया । मात्रया तु चतुः- षष्ट्या कुम्भयेच्च सुषुम्णया । द्वात्रिंशन्मात्रया मन्त्री रेचयेत् पिङ्गलाख्यया । पूरयेदनया चैव सञ्चिन्त्य नील- मारुतम् । रक्तवर्णं वह्निवीजं (रं) त्रिकोणं स्वस्तिका- न्वितम् । तेन पूरकयोगेन मात्रया षोडशाख्यया । चतुःषष्ट्या मात्रया च निर्दहेत् कुम्भकेन च । वाम- पार्श्वस्थितं पापपुरुषं कज्जलप्रभम् । ब्रह्महत्याशिर- स्कञ्च स्वर्णस्तेयभुजद्वयम् । सुरापानहृदायुक्तं गुरु- तल्पकटिद्वयम् । तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् । उपपातकरोमाणं रक्तश्मश्रुविलोचनम् । खड्गचर्मधर” क्रुद्धमेवं कुक्षौ विचिन्तयेत् । मूलाधारोत्थितेनैव वह्निना निर्दहेच्च तम् । एवं सन्दह्य परितो द्वात्रिंश- न्मात्रया ततः । भस्मना सहितं मन्त्री रेचयेदिडया पुनः । वामनाड्यां चन्द्रबीजं (ठं) कुन्देन्वयुतसन्निभम् । भालेन्दुवीजे संयोज्य ततः षोडशमात्रया । सुषुम्णया चतुःषष्टिमात्रया तोयवीजकम् (वं) । ध्यात्वाऽमृतमयीं वृष्टि पञ्चाशद्वर्णरूपिणीम् । तया देहं विचिन्त्यैवं मनसा पिङ्गकाध्वना । द्वात्रिंशन्मात्रया मन्त्री लं- वीजेन दृढं नयेत् । स्वस्थाने हंसमन्त्रेण पुनस्तेनैव वर्त्मना । जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत् ततः । इति कृत्वा भूतशुद्धिं मातृकाम्यासमाचरेत्” । ततो हंस इति वीजं हृदयमानीय कुलकुण्डलिनीं पृतिव्यादीनि च यथास्थाने स्थापयेत् । विशेषतस्तु शक्तिविषये । हंस इति जीवादिकं परमशिवे संयोज्य सोऽहमिति मन्त्रेण स्थाने नयेत् । तन्त्रान्तरे “सोऽहमेदं समाभाष्य जीवं हृदि समानयेत्” । शूद्रे तु विशेषो वाराहीतन्त्रे “हंसाख्यं न स्मरेत् शुद्रा भूतशुद्धौ कदाचन । स्वरणान्नरकं याति दीक्षा च विफला भवेत्” । शारदायाम् “जीवं तेजोमयं ध्यात्वा नमो मन्त्रेण योजयेत्” । भूतशुद्धिपदव्युत्पत्तिमाह विशुद्धे- श्वरे “शरीराकारभूतानां भूतानां यद्विशोधनम् । अव्ययब्रह्मसंयोगात् भूतशुद्धिरियं मता” वराहीये “मूलाधारात्ततो वीजं ब्रह्ममार्गेण देशिकः । हंसेन पुष्करस्थाने परमात्मनि योजयेत्” । ब्रह्ममार्गः सुषुम्णा । त्रिपुरासारसमुच्चये “संयोज्य वीजमथ दुर्गममध्यनाडी- मार्गेण पुष्करनिविष्टशिवे सुसूक्ष्मे” । ज्ञानार्णवे “प्राणप्रतिष्ठया पश्चात् जीवं देहे निधापयेत् । मुखवृत्तं समुच्चार्य्य हंसस्तु विपरीतकः । उद्धरेत् परमेशानि! विद्येयं त्र्यक्षरी मता । प्राणप्रतिष्ठामन्त्रोऽयं सर्व- कर्माणि साधयेत् । तेनैव विधिना देवि! स्थिरीकुर्य्या- न्निजां तनुम्” । तारादौ विशेषस्तत्रैव दृश्यः ।
शब्दकल्पद्रुमः
भूतशुद्धिः || स्त्री (भूतानां देहारम्भ कपृथिव्यादि पञ्चभूतानां शुद्धिः शोधनम् ।)
पूजादौ बीज- विशेषद्वारावामकुक्षिस्थितपापपुरुषदहनपूर्ब्बक- शरीरशोधनम् । तत्प्रयोगो यथा । रमिति जलधारया वह्निप्राकारं विचिन्त्य स्वाङ्के डत्तानौ करौ कृत्वा सोऽहमिति जीवात्मानं हृदयस्थं दीपकलिकाकारं मूलाधारस्थकुलकुण्डलिन्या सह सुषुम्नावर्त्मना मूलाधारस्वाधिष्ठानमणिपुर- कानाहतविशुद्धाज्ञाख्यषट्चक्राणि भित्त्वा शिरो ऽवस्थिताधोमुखसहस्रदलकमलकर्णिकान्तर्गत- परमात्मनि संयोज्य तत्रैव पृथिव्यप्तेजोवाय्वा- काशगन्धरसरूपस्पर्शशब्दनासिकाजिह्वाचक्षु- स्त्वक्श्रोत्र वाक्पाणिपादपायूपस्थप्रकृतिमनो- बुद्ध्यहङ्काररूपचतुर्व्विंशतितत्त्वानि लीनानि विभाव्य यमिति वायुबीजं धूम्रवर्णं वामनासा- पुटे विचिन्त्य तस्य षोडषवारजपेन वायुना देहमापूर्य्य नासापुटौ धृत्वा तस्य चतुःषष्टि- वारजपेन कुम्भकं कृत्वा वामकुक्षिस्थकृष्णवर्ण- पापपुरुषेण सह देहं संशोष्य तस्य द्वात्रिंशद्- वारजपेन दक्षिणनासया वायुं रेचयेत् । दक्षिणनासापुटे रमिति वह्निबीजं रक्तवर्णं ध्यात्वा तस्य षोडशवारजपेन वायुना देहमा- पूर्य्य नासापुटौ धृत्वा तस्य चतुःषष्टिवारजपेन कुम्भकं कृत्वा पापपुरुषेण सह देहं मूलाधारो- त्थितवह्निना दग्ध्वा तस्य द्बात्रिंशद्वारजपेन वामनासया भस्मना सहवायुं रेचयेत् । ठमिति चन्द्रबीजं शुक्लवर्णं वामनासायां ध्यात्वा तस्य षोडशवारजपेन ललाटे चन्द्रं नीत्वा नासापुटौ धृत्वा वमिति वरुणबीजस्य चतुःषष्टिवारजपेन तस्माल्ललाटस्थचन्द्राद्गलितसुधया मातृका- वर्णात्मिकया समस्तदेहं विरचय्य लमिति पृथ्वी- बीजस्य द्वात्रिंशद्वारजपेन देहं सुदृढं विचिन्त्य दक्षिणेन वायुं रेचयेत् । मात्रासंख्यया वा ॥ * ॥
तदुक्तं गौतमीये । “सुषुम्नावर्त्मना सोऽहमिति मन्त्रेण योजयेत् । सहस्रारे शिवस्थाने परमात्मनि देशिकः ॥ धूम्रवर्णं ततो वायुबीजं षड्बिन्दुलाञ्छितम् । पूरयेदिडया वायुं सुधीः षोडशमात्रया ॥ मात्रया तु चतुःषष्ट्या कुम्भयेच्च सुषुम्नया । द्वात्रिंशन्मात्रया मन्त्री रेचयेत् पिङ्गलाख्यया ॥ पूरयेदनया चैव सञ्चिन्त्य नीलमारुतम् । रक्तवर्णं वह्निबीजं त्रिकोणं स्वस्तिकान्वितम् ॥ तेन पूरकयोगेन मात्रया षोडशाख्यया । चतुःषष्ट्या मात्रया च निर्द्दहेत् कुम्भकेन च । वामपार्श्वस्थितं पापपुरुषं कज्जलप्रभम् । ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेयभुजद्वयम् ॥ सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् । तत्संसर्गि पदद्बन्द्बमङ्गप्रत्यङ्गपातकम् ॥ उपपातकरोमाणं रक्तश्मश्रु विलोचनम् । खड्गचर्म्मधरं क्रुद्धमेवं कुक्षौ विचिन्तयेत् ॥ मूलाधारोत्थितेनैव वह्निना निर्द्दहेच्च तम् । एवं संदह्य परितो द्वात्त्रिंशन्मात्रया ततः ॥ भस्मना सहितं मन्त्री रेचयेदिडया पुनः । वामनाड्यां चन्द्रबीजं कुन्देन्दुयुतसप्रभम् ॥ भालेन्दुराजे संयोज्य ततः षोडशमात्रया । सुषुम्नया चतुःषष्टिमात्रया तोयबीजकम् ॥ ध्यात्वामृतमयीं वृष्टिं पञ्चाशद्वर्गरूपिणीम् । तया देहं विचिन्त्यैवं मनसा पिङ्गलाध्वना ॥ द्वात्रिंशन्मात्रया मन्त्री लं बीजेन दृढं नयेत् । स्वस्थाने हंसमन्त्रेण पुनस्तेनैव वर्त्मना ॥ जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत्ततः । इति कृत्वा भूतशुद्धिं मातृकान्यासमाचरेत् ॥ * संक्षेपभूतशुद्धिर्यथा । पुरश्चरणचन्द्रिकायाम् । “अथवान्यप्रकारेण भूतशुद्धिर्विधीयते । धर्म्मकन्दसमुद्भूतं ज्ञाननालसुशोभनम् ॥ ऐश्वर्य्याष्टदलोपेतं परं वैराग्यकर्णिकम् । स्वीयहृत्कमले ध्यायेत् प्रणवेन विकासितम् ॥ कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् । जीवात्मानं हृदि ध्यात्वा मूले सञ्चिन्त्य कुण्डलीम् । सुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् ॥” इति तन्त्रसारः ॥