वाचस्पत्यम्
भूताङ्कुश || पु० भूतानां पिशाचानामङ्कुश इवापसारकत्वात् । स्वनामख्याते वृक्षे ।
शब्दकल्पद्रुमः
भूताङ्कुशः || पुं, (भूतानामङ्कुश इव निवारकत्वात् ।)
स्वनामख्यातवृक्षः । तत्पर्य्यायः । क्षवकः २ क्षुरकः ३ तीक्ष्णः ४ क्ररः ५ क्षवः ६ राजो- द्वेदनसंज्ञः ७ भूतद्रावी ८ ग्रहाह्वयः ९ । ढ्यस्य गुणाः । तीव्रगन्धत्वम् । उत्कटत्वम् । उष्णत्वम् कटुत्वम् । भूतग्रहादिदोषघ्नत्वम् । कफवात- निकृन्तनत्वञ्च । इति राजनिर्घण्टः ॥