संस्कृत-शब्दकोशः

भूप भूपद

भूपति

वाचस्पत्यम्

भूपति ||‍ पु० ६ त० । नृपे भूमिपत्यादयोऽप्यत्र ।


शब्दकल्पद्रुमः

भूपतिः || पुं, (भुवः पतिः ।)
वटुकभैरवः । यथा, “भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ।” इति विश्वसारतन्त्रोक्तभैरवस्तोत्रम् ॥ राजा । यथा, — भूपुत्त्री यस्य पत्नी स तु भवति कथं भूपती राम- चन्द्रः । इति रामायणे केकयीवाक्यम् ॥ ऋषभौघम् । इति राजनिर्घण्टः ॥



Correction: