वाचस्पत्यम्
भूमिखर्जूरिका || स्त्री भुवि जाता खर्जूरिका शा० त० । स्वर्जरिकाभेदे “भूमिखर्जूरिका साद्वी दुरारोहा मृदु- च्छदा । अथ स्कन्धफला काककर्कटी स्वादुमस्तका । पिण्डखर्जूरिका त्वन्या सा देशे पश्चिमे भवेत् । खर्जूरी गोस्तनाकारा पराद्द्वीपादिहागता । जायते पश्चिमे देशे सा छोहोरेति कीर्त्तिता । खर्जूरीत्रितयं शीतं मधुरं रसपाकयोः । स्निग्धं रुचिकरं हृद्यं क्षतक्षय हरं गुरु । तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भशुक्रदम् । कोष्ठमारुतकृद्बल्यं बाह्यवातकफापहम् । ज्वराभिघात- क्षुत्तृष्णाकासश्वासनिवारणम् । मदमूर्च्छामरुत्पित्त- मद्योद्भूतगदान्तकृत् । महतीभ्यां गुणैरल्पा स्वल्पखर्जू- रिका स्मृता । खर्जूरीतरुतोयन्तु मदपित्तकरं भवेत् । वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत्” भावप्र० ।
शब्दकल्पद्रुमः
भूमिखर्ज्जूरिका || स्त्री (भूमिजाता खर्ज्जूरिका ।)
क्षुद्रखर्ज्जूरी । तत्पर्य्यायः । स्वाद्वी २ दुरा- रोहा ३ मृदुच्छदा ४ । अस्या भेदाः गुणाश्च । “भूमिखर्ज्जूरिका स्वाद्वी दुरारोहा मृदुच्छदा । अथ स्कन्धफला काककर्क्कटी स्वादुमस्तका ॥ पिण्डखर्ज्जूरिका त्वन्या सा देशे पश्चिमे भवेत् । खर्ज्जूरी गोस्तनाकारा पराद्द्वीपादिहागता ॥ जायन्ते पञ्चिमे देशे सा च्छोहोरेति कीर्त्तिता ॥ खर्ज्जूरीत्रितयं शीतं मधुरं रसपाकयोः । स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु ॥ तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भिशुक्रदम् । कोष्ठमारुतकृद्वल्यं वाह्यवातकफापहम् ॥ ज्वराभिघातक्षुत्तृष्णाकाशश्वासनिवारणम् । मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत् ॥ महतीभ्यां गुणैरल्पा स्वल्पखर्ज्जूरिका स्मृता ॥ खर्ज्जूरीतरुतोयन्तु मदपित्तकरं भवेत् । वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत् ॥” इति भावप्रकाशः ॥