वाचस्पत्यम्
भूमिस्पृश् || पु० भूमिं स्पृशति स्पृश—क्विन् । १ वैश्ये २ मनुष्ये ३ चौरभेदे मेदि० । ४ खञ्जे ५ अन्धे च शब्दरत्ना० ।
शब्दकल्पद्रुमः
भूमिस्पृक् || [श्] पुं, (भूमिं स्पृशतीति । स्पृश् + “स्पृशोऽनुदके क्विन् ।” ३ । २ । ५८ । इति क्विन् ।)
मानुषः । वैश्यः । इति मेदिनी । शे, ३८ ॥ चौरविशेषः । अन्धः । खञ्जः । इति शब्द- रत्नावली ॥