वाचस्पत्यम्
भूयिष्ठ || त्रि० अतिशयेन बहुः इष्ठन् भ्वादेशो युक् च । १ बहु- तरे २ प्रचुरे च ।
शब्दकल्पद्रुमः
भूयिष्ठं || त्रि (अयमेषामतिशयेन बहुरिति । बहु + इष्ठन् । “इष्ठस्य यिट् च ।” ६ । ४ । १५९ । इति यिडागमो बहोः स्थाने भूरादेशश्चः ।)
प्रचुरः । इत्यमरः । ३ । १ । ६३ ॥ (यथा, ऋग्वेदे । ८ । ८५ । ३ । “इन्द्रस्य वज्र आयासो निमिश्ल इन्द्रस्य बाहो- र्भूयिष्ठमोजः ॥”)