वाचस्पत्यम्
भूरिपलितदा || स्त्री भूरि पलितमिव दायति दै—क । पाण्डुरकदलीवृक्षे राजनि० ।
शब्दकल्पद्रुमः
भूरिपलितदा || स्त्री (भूरि पलितं केशपाकं दायति शोधयति इति दैप् + कः । टाप् ।) पाण्डुरफली । इति राजनिर्घण्टः ॥