वाचस्पत्यम्
भूशय || पु० भुवि शेते शी—अच् ७ त० । १ बिलशये नकुलादौ । २ विष्णौ च “भूशयो भूषणो भूतिः” विष्णु स० । स हि रामावतारे समुद्रबन्धनाय सागरोपान्तभूमौ शयित इति तस्य तथात्वम् ।
शब्दकल्पद्रुमः
भूशयः || पुं, (भुवि शेते इति । भू + शीङ् + “अधिकरणे शेतेः ।” ३ । २ । १५ । इति अच् ।)
नकुलगोधादिः । एतेषां मांसगुणाः । गुरुत्वम् । उष्णत्वम् । मधुरत्वम् । स्निग्धत्वम् । वायुनाशि- त्वम् । शुक्रकारित्वञ्च । इति राजवल्लभः ॥ विष्णुः । यथा, —
“भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥” इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥