वाचस्पत्यम्
भृकुंस(श) || पु० भ्रुवा कुंसा(शा) इङ्गितज्ञापनं यस्य नि० भ्रुवः वा संप्रसारणम् । स्त्रीवेशधारिणि नटे अमरः ।
शब्दकल्पद्रुमः
भृकुंसः || पुं, (चुरादौ पट पुटेत्यादि दण्डकोक्तः कुसिर्भाषार्थः । स्त्रीवेशं धारयित्वा भ्रुवः कुस- यति पुरुषत्वमिति संज्ञात्वादुकारस्य अकारः ह्रस्वश्च वा । कुसि + अच् । यद्वा भ्रुवा कुंस इङ्गितप्रकाशो यस्य । निपातनात् सम्प्रसार णम् ।)
भ्रुकुंशः । स्त्रीवेशधारी नटपुरुषः । इत्यमरटीकायां रमानाथः ॥