संस्कृत-शब्दकोशः

भृगूणाम्पति भृङ्गक

भृङ्ग

वाचस्पत्यम्

भृङ्ग ||‍ पु० भृ—गन् कित् लट् च । भ्रमरे २ कलिङ्गविहगे (सिङ्गा) अमरः । ३ भृङ्गराजे ४ जारे मेदि० ५ भृङ्गार ६ भृङ्गरोखे च कीटभेदे (मीमरुल) शब्दरत्ना० ।


शब्दकल्पद्रुमः

भृङ्गं || क्ली (बिभर्त्तीति । डु-भृञ् भरणे । “भृञः कित् नुट् च ।” उणा० १ । १२४ । इति गन् । स च कित् नुडागमश्च ।)
त्वचम् । गुडत्वक् इति ख्यातम् । इत्यमरः । २ । ५ । १६ ॥ (यथा, —
“त्वक्पत्रञ्च वराङ्गं स्याद्भृङ्गञ्चेचन्तथोत्- कटम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अभ्रकम् । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

भृङ्गः || पुं, (विभर्त्त्यनुरागमिति । भृञ् + “भृञः कित् नुट् च ।” उणा० १ । १२४ । इति गन् । स च कित् नुट् च ।)
भ्रमरः । कलिङ्गपक्षी । इत्यमरः । २ । ५ । १६ । फिङ्गा इति भाषा ॥ (अस्य पर्य्याया धूम्याटशब्दे द्रष्टव्याः ।)
अस्य मांसगुणाः । मधुरत्वम् । स्निग्धत्वम् । कफशुक्र- विवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ षिड्गः । भृङ्गराजः । इति मेदिनी गे, १५ ॥ (यथास्य पर्य्यायः । “भृङ्गराजः केशराजो भृङ्गः पत्तङ्ग मार्कवम् इति वैद्यकरत्नमालायाम् ॥ तथा च पर्य्यायान्तरम् । “भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एव च । अङ्गारकः केशराजो भृङ्गारः केशरञ्जनः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
भृङ्गारः । भृङ्गरोलः । इति शब्दरत्नावली ॥



Correction: