वाचस्पत्यम्
भृङ्गरजस् || पु० भृङ्गान् रजयति अन्तर्भूतण्यर्थे रन्ज—असुन् नलोपः । भृङ्गराजे अमरटीकायां भरतः ।
शब्दकल्पद्रुमः
भृङ्गरजाः || [स्] पुं, (रजयतीति । अन्तर्भूत- ण्यर्थातः रञ्जे “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् । ततो “रजेश्च ।” ६ । ४ । २६ । इति नलोपः । ततो भृङ्गाणां रजाः रञ्जकः । अथवा भृङ्ग इव कृष्णवर्णं रजः परागोऽस्य ।)
भृङ्गराजः । इत्यमरटीकायां भरतः ॥