वाचस्पत्यम्
भृङ्गि || पु० भृ—निक् नुट् च । शिवपार्श्वचरभेदे । “प्राप्ता गणाधिपत्यं त्वं नाम्ना भृङ्गिरिति स्मृतः” वामनपु० ।
शब्दकल्पद्रुमः
भृङ्गिः || पुं, (विभर्त्तीति । भृ + बाहुलकात् गिक् नुट् च ।)
भृङ्गी । यथा, —
“प्राप्ता गणाधिपत्यं त्वं नाम्ना भृङ्गिरिति स्मृतः ।” इति वामनपुराणे ४५ अध्यायः ॥