संस्कृत-शब्दकोशः

भृत्रिम भृम्यश्व

भृमि

वाचस्पत्यम्

भृ(भ्र)मि ||‍ पु० भ्रम—इन् पृषो० वा संप्रसारणम् । (घूर्णा) १ वायुभेदे ३ भ्रमणे च । “किमु चक्रभ्रमिकारितागुणः” नैषधम् ।


शब्दकल्पद्रुमः

भृमिः || पुं, (भ्रमति भ्राम्यति वेति । भ्रम् + “भ्रमेः संप्रसारणञ्च ।” उणा० ४ । १२० । इति इन् कित् सम्प्रसारणञ्च ।)
वायुविशेषः । घूरणा वातास इति भाषा । जलादिभ्रमणम् । इत्युणादि- कोषः ॥ (त्रि, कर्म्मनिर्व्वाहकः । यथा, ऋग्- वेदे । १ । ३१ । १६ । “आपिः पिता प्रमतिः सोम्यानां मृमिरस्यृषिकृन्मर्त्त्यानाम् ॥” “भृमिर्भ्रामकः कर्म्मनिर्व्वाहक इत्यर्थः ।” इति तद्भाष्ये सायनः ॥ भ्रमणशीलः । यथा, ऋग्- वेदे । ३ । ६२ । १ । “इमा उवां भृमयो मन्यमाना युवावते न तुज्या अभूवन् ॥” “भृमयः भ्रमणशीलाः ॥” इति तद्भाष्ये सायनः ॥ वीणाविशेषे स्त्री । यथा, ऋग्वेदे । २ । ३४ । १ । “अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अपगा अवृण्वत ॥” “यद्वा, भृम्याख्यो वीणाविशेषस्तं धमन्तो वाद- यन्तः ॥” इति तद्भाष्ये सायनः ॥)



Correction: