संस्कृत-शब्दकोशः

भॄ भेकट

भेक

वाचस्पत्यम्

भेक ||‍ पुंस्त्री० भी—कन् कस्य नेत्त्वम् । (व्याङ) १ जन्तुभेदे अमरः स्त्रियां जातित्वात् ङीष् । “तेजःसद्योबलकरः भ्रमतृड्- दाहमेहनुत् । स्वापकुष्ठच्छर्दिनाशी भेकस्तु परिकीर्त्तितः” राजनि० । २ मेघे मेदि० ३ मण्डूकपर्ण्यां स्त्री ङीप् अमरः


शब्दकल्पद्रुमः

भेकः || पुं, (बिभेति इति । भी + “इण्भीका- पाशल्यतीति ।” उणा० । ३ । ४३ । इति कन् । जन्तुविशेषः । व्याङ् इति भाषा । तत्- पर्य्यायः । मण्डूकः २ वर्षाभूः ३ शालूरः ४ प्लवः ५ दर्दुरः ६ । इत्यमरः । १ । १० । २४ ॥ वृष्टिभूः ७ सालूरः ८ । इति तट्टीका ॥ प्लवङ्गमः ९ व्यङ्गः १० प्लवगः ११ शल्लः १२ नन्दनः १३ गूढवर्च्चाः १४ अजिह्वः १५ जिह्ममोहनः १६ । इति शब्दरत्नावली ॥ नन्दकः १७ कृता- लयः १८ रेकः १९ । इति त्रिकाण्डशेषः ॥ मण्डः २० हरिः २१ लुलुकः २२ । क्वचित् पुस्तके लूलकोऽपि पाठः । शालूकः २३ कटुरवः २४ । अस्य मांसगुणाः । सद्योबलकरत्वम् । श्रम- तृड्दाहप्रमेहक्षयकुष्ठच्छर्द्दिनाशित्वञ्च । इति राजनिर्घण्टः ॥ मेघः । इति मेदिनी । के, ३० ॥ (यथा, आर्य्यासप्तशत्याम् । ४५१ । “संवृणुतेऽद्रीनुदधिर्निदाघनद्यो न भेकमपि ॥”)



Correction: