वाचस्पत्यम्
भैक्ष || न० भिक्षैव तत्समूहो वा अण् । १ भिक्षायां २ भिक्षासमूहे च । भिक्षायां भवः तत्प्रतिपाद्यग्रन्थव्याख्या वा ऋगयना० अण् । ३ भिक्षाभवे त्रि० स्त्रियां ङीप् । ४ तत्प्रतिपादक- ग्रन्थव्याख्याने च । “भिक्षाशनमनुद्यागात् प्राक् केनाप्य निमन्त्रितम् । अयाचितं तु तद्भैक्षं भोक्तव्यं मनुरब्र वीत्” उशनाः ।
शब्दकल्पद्रुमः
भैक्षं || क्ली (भिक्षाणां समूह इति । भिक्षा + भिक्षादिभ्योऽण् ।” ४ । २ । ७८ । इत्यण् ।)
भिक्षासमूहः । इत्यमरः । २ । ७ । ४७ ॥ अपि च । “भिक्षाशनमनुद्योगात् प्राक्केनाप्पनिमन्त्रितम् । अयाचितन्तु तद्भैक्षं भोक्तव्यं मनुरब्रवीत् ॥” इति प्रायश्चित्ततत्त्वधृतोशनसो वचनम् ॥ (भिक्षैव स्वार्थे अण् । भिक्षा ॥ भिक्षाभवे भिक्षालब्धे वा त्रि ॥)