वाचस्पत्यम्
भोगसद्मन् || व० भोगार्थं सद्म । वासगृहे शब्दरत्ना० ।
शब्दकल्पद्रुमः
भोगसद्म || [न्] क्ली, (भोगार्थं उपभोगार्थं सद्म ।) वासगृहम् । यथा, — “गर्भागारं वासगृहं भोगसद्मापवाधकम् ।” इति शब्दरत्नावली ॥