वाचस्पत्यम्
भोगिन् || पु० भोगः फणाऽस्त्यस्य इनि । १ सर्पे अमरः तद्देव- ताके । २ अश्लेषानक्षत्रे च ३ ग्रामपात्रे ४ नृपे मेदि० तस्य प्रशस्तभोगवत्त्वात्तथात्वम् । ५ नापिते विश्वः । ६ व्यावृत्तिकरे हेमच० ७ भोगयुते त्रि० स्त्रियां ङीप् सा च ८ महिषी- भिन्नराजभार्य्यायाम् अमरः भट्टिनीत्यत्र पाठान्तरम् ।
शब्दकल्पद्रुमः
भोगी || [न्] पुं, (भोगोऽस्यास्तीति । भोग + इनिः ।)
सर्पः । इत्यमरः । १ । ७ । ८ । (यथा, विष्णुपुराणे । १ । ३ । २३ । “एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः । भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः ॥” भोगयुक्तः । यथा, आर्य्यासप्तशत्याम् । ४१४ । “भवतालिङ्गि भुजङ्गी जातः किल भोगिचक्र- वर्त्ती त्वम् ॥”)
ग्रामपात्रः । नृपः । इति मेदिनी । ने । १०२ । नापितः । इति विश्वः ॥ वैयावृत्तिकरः । इति हेमचन्द्रः ॥