वाचस्पत्यम्
भोजपति || पु० ६ त० । १ भोजदेशाधिपे २ कंसराजे च भाग० १० । ४७ अ० भोजनाथादयोऽप्युत्र
शब्दकल्पद्रुमः
भोजपतिः || पुं, (भोजानां भोजवंशीयानां पतिः ।)
कंसराजः । यथा, —
“मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्त्तिमान् गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्गंगतः साग्रजः ॥” इति श्रीभागवते १० स्कन्धे ४३ अध्याये १७ श्लोकः ॥