वाचस्पत्यम्
भ्र(भ्रु)(भ्रू)कुटि || पुंस्त्री० भ्रुवः कुटिः कौटिल्यम् । भ्रकुं- शवत् रूपत्रयम् । भ्रुवः कौटिल्ये अमरः ।
शब्दकल्पद्रुमः
भ्रकुटिः || स्त्री (भ्रुवोः कुटिः कौटिल्यम् । “भ्रु कुं- सादीनामकारो भवतीति वक्तव्यम् ।” ६ । ३ । ६१ । इत्यस्य वार्त्तिकोक्त्या । उकारस्यात्वम् ।)
क्रोधा- दिना भ्रुवः कौटिल्यम् । इत्यमरः । १ । ७ । ३७ ॥ अस्या रूपान्तराणि । भ्रुकुटिः । भ्रूकुटिः । भृकुटिः । भ्रकुटी । भ्रुकुटी । (यथा, माघे । १५ । ८ । “भ्रुकुटीकठोरितललाटमाननम् ।”)
भ्रूकुटी । भृकुटी । इति भरतः ॥