संस्कृत-शब्दकोशः

भ्रमिन् भ्रंशकला

भ्रंश

वाचस्पत्यम्

भ्रश ||‍ अधःपतने दि० पर० सक० सेट् । भ्रश्यति अभ्राशीत् अभ्रशीत् । उदित् क्त्वा वेट् । भ्रशित्वा भ्रष्ट्वा । भ्रष्टः ।


शब्दकल्पद्रुमः

भ्रश || य उ अधःपतने । इति कविकल्पद्रुमः ॥ (दिवां-पर०-अक०-सेट् ।)
य भ्रश्यति । उ भ्रशित्वा भ्रष्ट्वा । इति दुर्गादासःः ॥


वाचस्पत्यम्

भ्रंश ||‍ पु० भ्रन्श—भावे घञ् । व्यसने अमरः । अतःपाते च


शब्दकल्पद्रुमः

भ्रंशः || पुं, (भ्रन्श + भावे घञ् ।)
अधःपतनम् । यथा । भ्रेषो भ्रंशो यथोचितात् । इत्यमरः । २ । १८६ । २३ ॥ यथोचितात् यथाप्राप्तात् भ्रंशोऽधःपतनम् । इति भ्रेषशब्दटीकायां भरतः ॥ (यथा, कामन्दकीये नीतिसारे । २ । ३९ । “उद्वेजनादधर्म्मस्तु तस्माद् भ्रंशो महीपतेः ॥” नाशः । यथा, बृहत्संहितायाम् । ४६ । २५ । “शाखाभङ्गेऽकस्मात् वृक्षाणां निर्द्दिशेद्रणोद्योगम् । हसने देशभ्रंशं रुदिते च व्याधिबाहुल्यम् ॥”)



Correction: