संस्कृत-शब्दकोशः

भ्रातृवल भ्रातृश्वशुर

भ्रातृव्य

वाचस्पत्यम्

भ्रातृव्य ||‍ पु० भ्रातुः पुत्रः भ्रातृ + व्यत् । १ भ्रातुष्पुत्रे २ शत्रौ च हेमच० “अतिपाप्मानं भ्रातृव्यं क्षपयति य एतया स्तु- ते” ता० ब्रा० २ । ७ । २ ।


शब्दकल्पद्रुमः

भ्रातृव्यः || पुं, (भ्रातुरपत्यमिति । “भ्रातुर्व्यच्च ।” ४ । १ । १४४ । इति व्यत् ।)
भ्रातृपुत्त्रः । (यथा, राजतरङ्गिण्याम् । ८ । २८४२ । “जयराजानुजं राज्ञा यशोराजं बिवेशितम् । तन्मतेनावचस्कन्द भ्रातृव्यं राजकाभिधः ॥” भ्रातृ + “व्यन् सपत्ने ।” ४ । १ । १४५ । इति व्यन् ।)
शत्रुः । इति हेमचन्द्रः ॥ (यथा, भागवते । ५ । ११ । १७ । “भ्रातृव्यमेतं त्वमदभ्रवीर्य्य- मुपेक्षयाध्येधितमप्रमत्तः ॥” “तस्मात् भ्रातृव्यम् शत्रुम् ।” इति तट्टीकायां स्वामी ॥)



Correction: