वाचस्पत्यम्
भ्रात्रीय || पुंस्त्री० भ्रातुरपत्यम् छ । भ्रातुष्पुत्रे अमरः ।
शब्दकल्पद्रुमः
भ्रात्रीयः || पुं, (भ्रातुरपत्यं पुमानिति । भ्रातृ + “भ्रातुर्व्यच्च ।” ४ । १ । १४४ । इत्यत्र ‘चकारा- च्छश्च ।’ इति काशिकोक्तेः छः ।)
भ्रातृपुत्त्रः । इत्यमरः । २ । ६ । ३६ ॥ भ्रातृसम्बन्धिनि, त्रि ॥