वाचस्पत्यम्
भ्रान्ति || स्त्री भ्रम—क्तिन् । १ भ्रमणे २ अयथार्थज्ञाने च । “षाण्मासिके तु संप्राप्तै भ्रान्तिः संजायते नृणाम् । धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा” ज्यो० त० । भ्रान्तिज्ञानञ्च चित्तविक्षेपः योगान्तरायः पात० सू० उक्तः चित्तविक्षेपशब्दे २९४१ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
भ्रान्तिः || स्त्री (भ्रम् + क्तिन् । “अनुनासिकस्य किज्झलोः क्ङिति । ६ । ४ । १५ । इति दीर्घः ।)
भ्रमः । इत्यमरः । १ । ५ । ४ ॥ (“युक्तिहीनप्रकाशत्वाद् भ्रान्तेर्नह्यस्ति लक्षणम् । यदि स्याल्लक्षणं किञ्चिद्भ्रान्तिरेव न सिध्यति ॥” इति तार्किकाः ॥)
सा तु नराणां षष्ठमासे जायते । यथा, —
“षाण्मासिके तु संप्राप्ते भ्रान्तिः संजायते यतः । धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥” इति ज्योतिस्तत्त्वम् ॥ भ्रमणम् । इति मेदिनी ॥ अनवस्थितिः । इति विश्वः ॥