वाचस्पत्यम्
मकरकेतन || पु० मकरः मकरचिह्नितं केतनं ध्वजो यस्य । कन्दर्पे हेमच० मकरकेत्वादयोऽप्यत्र ।
शब्दकल्पद्रुमः
मकरकेतनः || पुं, (मकरेण चिह्नितं केतनं ध्वजो यस्य ।) कन्दर्पः । इति मीनकेतनशब्दटीकायां भरतेन सङ्केतितम् ॥