वाचस्पत्यम्
मकुष्टक || पु० मकि—भूषायां उ—पृषो० मकुं भूषां स्तकति प्रतिहन्ति स्तक—अच् सुषामा० षत्वम् । वनसुद्गे (मुगानि) राजनि० ।
शब्दकल्पद्रुमः
मकुष्टकः || पुं, (मकि भूषायां + उः । पृषोदरादि- त्वात् साधुर्मकुः । मकुं भूषां स्तकति प्रति- हन्तीति । स्तक + पचाद्यच् ।)
वनजातमुद्गः । मोठ इति हिन्दी भाषा ॥ मुगानि इति वङ्गभाषा । तत्पर्य्यायः । मयष्टः २ वनमुद्गः ३ कृमीलकः ४ अमृतः ५ अरण्यमुद्गः ६ वल्ली- मुद्गः ७ । अस्य गुणाः । कषायत्वम् । मधुर- त्वम् । रक्तपित्तज्वरदाहहरत्वम् । पथ्यत्वम् । रुचिकारित्वम् । सर्व्वदोषजयकारित्वञ्च । इति राजनिर्घण्टः ॥ “मकुष्टो बातलो ग्राही कफपित्तहरो लघुः । वान्तिजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः ॥” इति भावप्रकाशः ॥