वाचस्पत्यम्
मखान्न || न० मखे तत्काले भोज्यमन्नं मुन्यन्नत्वात् शा० त० । (माखना) १ जलजाते मूलजे फलभेदे “मखान्नं पद्मवीजस्य गुणैस्तुल्यं विनिर्दिशेत्” भावप्र० । ६ त० । २ यज्ञान्ने च ।
शब्दकल्पद्रुमः
मखान्नं || क्ली (मखे मखकाले भोज्यमन्नम् ।)
खाद्यबीजभेदः । माखाना इति भाषा ॥ तत्- पर्य्यायः । पद्मबीजाभम् २ पानीयफलम् ३ । “मखान्नं पद्मबीजस्य गुणैस्तुल्यं विनिर्द्दिशेत् ।” इति भावप्रकाशः ॥