संस्कृत-शब्दकोशः

मघवन् मघात्रयोदशी

मघा

वाचस्पत्यम्

मघा ||‍ स्त्री मह—घ हस्य घत्वम् । अश्विन्यवधिके दशमे नक्षत्रे तस्याश्च पञ्चतारात्मकत्वात् बहुत्वमपि “पितरः स्पृहय- न्त्यन्नमष्टकासु मघासु च” स्मृतिः । “मघां मूलञ्च वर्जये- दिति “मघायां पिण्डदानञ्चेति” स्मृतिस्तु समुदायस्येक- त्वाभिप्रायेण । अस्या योगतारादिकमश्लेषाशब्दे ४९७ पृ० उक्तम् । २ औषधभेदे धरणिः ।


शब्दकल्पद्रुमः

मघा || स्त्री (मह् + घः । हस्य घत्वम् ।)
औषध- विशेषः । इति धरणिः ॥ अश्विन्यादिसप्तविंश- नक्षत्रान्तर्गतदशमनक्षत्रम् । तत्तु लाङ्गलाकृति पञ्चतारात्मकम् । गृहाकृति । इति केचित् । अस्याधिष्ठातृदेवता पितृगणः । यथा, —
“लाङ्गलाकृतिनि पञ्चतारके चारुकेशि पितृभे शिरोगते । नीलनीरदविनिन्दिलोचने ! वृश्चिकाद्विगलितं कलाशतम् । १ । ४० ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ तत्र जातफलम् । कठोरचित्तः पितृमातृभक्त- स्तीव्रस्वभावस्त्वनवद्यविद्यः । चेज्जन्मभं यस्य मघानघः स्या- न्मतिः सदारातिविनाशदक्षा ॥” इति कोष्ठीप्रदीपः ॥ मघाशब्दो बहुवचनान्तोऽपि दृश्यते । यथा, —
“कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः । यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते ॥ अपि च । नवोदके नवान्ने च गृहप्रच्छादने यथा । पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ॥” इति तिथ्यादितत्त्वम् ॥ एकवचनान्तप्रयोगो यथा, —
“मघायां पिण्डदानेन ज्येष्ठपुत्त्रो विनश्यति ।” इति मलमासतत्त्वम् ॥ (अस्यां व्याधिजननेऽरिष्टत्वं यथा, —
“मघा भरणीहस्तेषु मूले वा ज्वरितोऽपि वै । मृत्पुमापद्यते सोऽपि नात्र कार्य्या विचारणा ॥ “नवरात्र तथाश्लेषा मघास्वेति यमालयम् ॥” इति हारीते द्वितीये स्थाने चतुर्थेऽध्याये ॥)



Correction: