वाचस्पत्यम्
मङ्गल || पु० मगि—अलच् । १ भूमिसुते ग्रहभेदे २ प्रशस्ते ३ अभीष्टार्थसिद्धौ च । ४ तद्वति त्रि० अमरः । स्त्रियां ङीप् “सुमङ्गलीरियं बधूः” सि० कौ० । ५ दुर्गायां ६ हरि- द्रायां ७ दूर्वायां ८ पतिव्रतायाञ्च स्त्री शब्दरत्ना० ९ क- रञ्जभेदे स्त्री शब्दच० । १० वृत्तार्हन्मातृभेदे स्त्री हेम० ११ योनिनीदशाभेदे “मङ्गला पिङ्गलेति” दशाशब्दे दृश्यम् । अभिप्रेतसिद्धिर्मङ्गलं तद्धे तुत्वात् गोरोचनादेरपि तघा- त्वम् । मङ्गसद्रव्याणि च मत्स्यसूक्ते ४२ प० उक्तानि यथा “लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः । एतानि सततं पश्येन्नमस्येदर्चयेत्ततः । प्रदक्षिणन्तु कुर्वीत तथा- चायुर्प हीयते । दूर्वां दथिं सर्पिरथोदकुम्भं धेतुं सवत्- सां वृषगं सुवर्णम् । मृद्गोमयं स्यस्तिकमक्षतानि साजा मधु ब्राह्मणकन्यकाश्च । श्वेतानि पुष्पाणि तधा शमीस” हुताशनं चन्दनमर्कविम्बम् । अश्वत्थवृक्षञ्च समालभेत ततश्च कुर्य्याद्द्विजजातिधर्मम्” दधिमित्यार्षम् । १२ विष्णौ न० “पवित्रं मङ्गलं परम्” विष्णुस० । कुजशब्दे २०६६ पृ० मङ्गसग्रहकक्षादि दृश्यम् । “प्रशस्तचरणं नित्यमप्रशस्त- विवर्जनम् । एतच्च मङ्गलं प्रोक्तनृषिभिर्मन्त्रदर्शिभिः” अत्रि० उक्ते १३ प्रशस्ताचरणे निन्द्यवर्जने ।
शब्दकल्पद्रुमः
मङ्गलं || क्ली (मङ्गति हितार्थं सर्पति मङ्गति दुरदृष्टमनेनास्माद्वेति । मगि + “मङ्गतेरलच् ।” उणा० ५ । ७० । इत्यलच् ।)
अभिप्रेतार्थ- सिद्धिः । इति तिथ्यादितत्त्वम् ॥ तद्वति, त्रि । इत्यमरः ॥ यथा, रामायणे । २ । २३ । ३० । “मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ॥” तत्पर्य्यायः । भावुकम् २ भव्यम् ३ कल्याणम् ४ भविकम् ५ शुभम् ६ । क्षेमम् ७ प्रशस्तम् ८ भद्रम् ९ स्वश्रेयसम् १० शिवम् ११ अरिष्टम् १२ कुशलम् १३ रिष्ठम् १४ मद्रम् १५ शस्तम् १६ । इति शब्दरत्नावली ॥ (यथा, भागवते । ५ । १४ । ३४ । “मङ्गलाय च लोकानां क्षेमाय च भवाय च ।” “कल्याणं मङ्गलं क्षेमं शातं शर्म्म शिवं शुभम् । इति वैद्यकरत्नमालायाम् ॥ शिखिहयगजगोधा रासभो भृङ्गराजो मुखरपिककपोतो पोतकी शूकरी वा । तदनु विहगराजो मङ्गलाशंसिनः स्यु- र्वदति शकुनवेत्ता वामतो निर्गमे वः ॥” इति हारीते द्वितीयस्थाने सप्तमेऽध्याये ।)
सर्व्वार्थरक्षणम् । इति मेदिनी । ले, १२० ॥ * ॥
मङ्गललक्षणं यथा, —
“प्रशस्ताचरणं नित्यमप्रशस्तविवर्ज्जनम् । एतद्धि मङ्गलं प्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः ॥” इत्येकादशीतत्त्वम् ॥ * ॥
मङ्गलजनकद्रव्याणि । यथा, —
“पूर्णकुम्भं द्विजं वेश्यां शुक्लधान्यञ्च दर्पणम् । दध्याज्यं मधु लाजञ्च पुष्पं दूर्व्वाक्षतं सितम् ॥ वृषं गजेन्द्रं तुरगं ज्वलदग्निं सुवर्णकम् । पर्णञ्च परिपक्वानि फलानि विविधानि च ॥ पतिपुत्त्रवतीं नारीं प्रदीपं मणिसुत्तमम् । मुक्तां प्रसूनमालाञ्च सद्योमांसञ्च चन्दनम् ॥ ददर्शैतानि वस्तूनि मङ्गलानि पुरो मुने ! । शृगालं नकुलं चासं शवं वामे शुभावहम् ॥ राजहंसं मयूरञ्च खञ्जनञ्च शुकं पिकम् । पारावतं शङ्खचिल्लं चक्रवाकञ्च मङ्गलम् ॥ कृष्णसारञ्च सुरभीं चमरीं श्वेतचामरम् । धेनुं वत्सप्रयुक्ताञ्च पताकां दक्षिणे शुभाम् ॥ नानाप्रकारवाद्यञ्च शुश्राव मङ्गलध्वनिम् । हरिशब्दस्य सङ्गीतं घण्टाशङ्खध्वनिन्तथा । दृष्ट्वा श्रुत्वा स जगाम हर्षेण तात ! मन्दिरम् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे कार्त्तिकागमनं नाम १६ अध्यायः ॥ * ॥
अपि च । “ददर्श वर्त्मन्येवञ्च मङ्गलार्हं शुभप्रदम् । वाञ्छाफलप्रदं रम्यं पुरो मङ्गलसूचकम् ॥ वामे शवं शिवां पूर्णकुम्भं नकुलमेव च । पतिपुत्त्रवतीं साध्वीं दिव्याभरणभूषिताम् ॥ शुक्लपुष्पञ्च माल्यञ्च धान्यञ्च खञ्जनं शुभम् । दक्षिणे ज्वलदग्निञ्च विप्रञ्च वृषभं गजम् ॥ वत्सप्रयुक्तां धेनुञ्च श्वेताश्वं राजहंसकम् । वेश्याञ्च पुष्पमालाञ्च पताकां दधि पायसम् ॥ मणिं सुवर्णं रजतं मुक्तामाणिक्यमीप्सितम् । सद्योमांसं चन्दनञ्च माध्वीकं घृतमुत्तमम् ॥ कृष्णसारं फलं लाजान् स्निग्धान्नं दर्पणन्तथा । विचित्रितं विशालञ्च सुदीप्तां प्रतिमान्तथा ॥ क्षणं ददर्श देवं तं पञ्चवक्त्वं त्रिलोचनम् । शुद्धस्फटिकसङ्काशं नागराजैर्विराजितम् ॥ शुक्लोत्पलं पद्मवनं शङ्खचिल्लञ्च कोरकम् । मार्जारं पर्व्वतं मेघं मयूरशुकसारसम् ॥ शङ्खकोकिलवाद्यानां ध्वनिं शुश्राव मङ्गलम् । विचित्रं कृष्णसङ्गीतं हरिशब्दं जयध्वनिम् ॥ एवंभूतं शुभं दृष्ट्वा श्रुत्वा प्रहृष्टमानसः । प्रविवेश हरिं स्मृत्वा पुण्यं वृन्दावनं वनम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७० अध्यायः ॥ अन्यच्च । “लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुता- शनः । हिरण्यं सर्पिरादित्य अपो राजा तथाष्टमः ॥ एतानि शततं पश्येन्नमस्येदर्च्चयेत्ततः । प्रदक्षिणन्तु कुर्व्वीत तथा चायुर्न हीयते ॥ दूर्व्वा दधि सर्पिरथोदकुम्भं धेनुं सवत्सां वृषभं सुवर्णम् । मृद्गोमयं स्वस्तिकमक्षतानि लाजा मधु ब्राह्मणकन्यकाश्च ॥ श्वेतानि पुष्पाणि तथा शमीञ्च हुताशनं चन्दनमर्कविम्बम् । अश्वत्थवृक्षञ्च समालभेत ततश्च कुर्य्याद्द्विजजातिधर्म्मम् ॥” इति मत्स्यसूक्तमहातन्त्रे ४३ पटलः ॥ वर्णभेदे मङ्गलप्रश्नभेदो यथा, —
“ब्राह्मणान् कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥” इति कौर्म्मे उपविभागे ११ अध्यायः ॥
शब्दकल्पद्रुमः
मङ्गलः || पुं, (मगि + “मङ्गतेरलच् ।” उणा० ५ । ७० । इति अलच् ।)
ग्रहविशेषः । तत्प- र्य्यायः । अङ्गारकः २ भौमः ३ कुजः ४ वक्रः ५ महीसुतः ६ वर्षार्च्चिः ७ लोहिताङ्गः ८ खोन्मुखः ९ ऋणान्तकः १० । इति शब्दरत्नावली ॥ आरः ११ क्रूरदृक् १२ आवनेयः १३ । इति ज्योतिष- तत्त्वम् ॥ स च रक्तगौरमिश्रितवर्णः । दक्षिण- दिक्पुरुषक्षत्त्रियजातिसामवेदतमोगुणतिक्त- रसमेषराशिप्रबालावन्तिदेशानामधिपतिः । मेषवाहनः । चतुरङ्गुलप्रमाणः । आरक्तमाल्य- वसनः । भरद्वाजमुनिसन्तानः । चतुर्भुजः । शक्तिवराभयगदाधारी । सूर्य्याभिमुखः । अस्याधिदेवता कार्त्तिकेयः । प्रत्यधिदेषता पृथिवी । स तु पित्तप्रकृतिः । युवा । क्रूरः । वनचारी । मध्याह्नकाले प्रबलः । गैरिकादि- धातुस्वामी । चतुष्पदानां प्रभुः । चतुष्कोणा- कृतिः । सुवर्णकारादीनां स्वामी । ज्वलित- भूमिचारी । किञ्चिदङ्गहीनः । कटुरसप्रियः । ताम्रवर्णरक्तद्रव्यस्वामी च । इति ग्रहयागतत्त्व- लघुजातकादयः ॥ * ॥
अस्योत्पत्तिर्यथा, —
“उपेन्द्रबीजात् पृथ्व्यान्तु मङ्गलः समजायत । वसुन्धरायां बलवान् तन्मे व्याख्यातुमर्हसि ॥ सौतिरुवाच । उपेन्द्ररूपमालोक्य कामार्त्ता च वसुन्धरा । विधाय सुन्दरी वेशमक्षता प्रौढयौवना ॥ सस्मिता तस्य तल्पे च सहसा समुपस्थिता । सुरम्यां मालतीमालां ददौ तस्मै वरानना ॥ उपेन्द्रस्तन्मनो ज्ञात्वा कामी मन्मथपीडितः । नानाप्रकारशृङ्गारं चकार च तया सह ॥ तदङ्गसङ्गमासक्ता मूर्च्छां प्राप सती तदा । मृतेव निद्रिता वासौ वीर्य्याधानकृते हरौ ॥ विहाय तत्र रहसि जगाम पुरुषोत्तमः । उर्व्वशी पथि गच्छन्ती बोधयामास तां मुने ! ॥ सा च पप्रच्छ वृत्तान्तं कथयामास भूश्च ताम् । वीर्य्यं सम्बरणं कर्त्तुं सा चाशक्ता च दुर्ब्बला ॥ प्रबालस्याकरे त्रस्ता वीय्यन्यासं चकार सा । तेन प्रबालवर्णश्च कुमारः समजायत । तेजसा सूर्य्यसदृशो नारायणसुतो महान् ॥” इति ब्रह्मवैवर्त्तपुराणे, ९ अध्यायः ॥ अपि च । “ततोऽङ्गारकलोको हि वसत्यत्र महीसुतः । उत्पत्तिञ्चास्य वक्ष्यामि यथायं भूसुतोऽभवत् ॥ पुरा हि भ्रमतो विष्णोः स्वेदबिन्दुः पपात ह । महांस्ततः कुमारोऽसौ लोहिताङ्गो मही- तलात् ॥ जातः स्नेहेन मेदिन्या वर्द्धितः पृथिवीपते ! । तपसाराध्य ब्रह्माणं ग्रहत्वमुपसेदिवान् ॥” इति पाद्मे स्वर्गखण्डे ११ अध्यायः ॥ अपरञ्च । “पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः । अपतद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः ॥ भित्त्वा समस्तपातालानदहत् सप्त सागरान् । अनेकवक्त्रनयनो ज्वलज्ज्वलनभीषणः ॥ वीरभद्र इति ख्यातः करपादायुतैर्युतः । कृत्वा स यज्ञमथनं पुनर्भूतलसम्भवः ॥ त्रिजगन्निर्द्दहन् भूयः शिवेन विनिवारितः । कृतं त्वया वीरभद्र ! दक्षयज्ञविनाशनम् ॥ इदानीमलमेतेन लोकदाहेन कर्म्मणा । शान्तिप्रदानात् सर्व्वेषां ग्रहाणां प्रथमो भव ॥ प्रेक्षिष्यन्ति जनाः पूजां करिष्यन्ति मतं मम । अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज ! ॥ देवलोके द्वितीयञ्च तव रूपं भविष्यति । ये च त्वां पूजयिष्यन्ति चतुर्थ्यां त्वद्दिने नराः । रूपमारोग्यमैश्वर्य्यं तेष्वनन्तं भविष्यति ॥ एवमुक्तस्तदा शान्तिमगमत् कामरूपधृक् । संजातस्तत्क्षणाद्राजन् ! ग्रहत्वमगमत् पुनः ॥” इति मत्स्यपुराणे अङ्गारकव्रतं नाम ६८ अः ॥ कल्पभेदे अन्धकासुरवधकाले तस्योत्पत्तिर्यथा, “यो भूम्यां न्यपतद्बिप्र ! स्वेदबिन्दुः शिवान- नात् । तस्मादङ्गारपुञ्जाभो बालकः समजायत ॥ स बालस्तृषितोऽत्यर्थं पपौ रुधिरमान्धकम् । कन्या चोत्स्वेदसंजाता सासृग्विलिलिहेऽद्भुता ॥ ततस्तामाह बालार्कप्रभां भैरवमूर्त्तिमान् । शङ्करो वरदो लोकश्रेयोऽर्थाय वचो महत् ॥ त्वां पूजयिष्यन्ति सुरा ऋषयः पितरस्तथा । यक्षविद्याधराश्चैव मानवाश्च शुभङ्करि ! ॥ त्वां स्तोष्यन्ति सदा देवि ! वलिपुष्पोत्करैः करैः । चर्च्चिकेति शुभं नाम यस्माद्रुधिरचर्च्चिता ॥ इत्येवमुक्ता वरदेन चर्च्चिका भूतानुयाता हरिचर्म्मवासिनी । महीं समन्ताद्विचचार सुन्दरी स्थलं गता हैङ्गुलमाद्यमुत्तमम् ॥ तस्यां गतायां वरदः कुजस्य प्रादाद्वरं सर्व्ववरोत्तमं यतः । ग्रहाधिपत्यं जगतः शुभाशुमं भविष्यति त्वद्वशगं महात्मनाम् ॥ इति वामनपुराणे ६७ अध्यायः ॥ अस्य स्तोत्रं यथा, —
“धरणीगर्भसंभूतं विद्युत्पुञ्जसमप्रभम् । कुमारं शक्तिहस्तञ्च लोहिताङ्गं नमाम्यहम् ॥” इति व्यासोक्तनवग्रहस्तोत्रान्तर्गतम् ॥ ऋणपरिशोधनार्थस्तोत्रं यथा, —
“मङ्गलो भूमिपुत्त्रश्च ऋणहन्ता धनप्रदः । स्थिरासनो महाकायः सर्व्वकर्म्माविरोधकः ॥ रोहितो लोहिताक्षश्च सामगानां कृपाकरः । धरात्मजः कुजो भौमो भूमिजो भूमिनन्दनः ॥ अङ्गारको यमश्चैव सर्व्वरोगापहारकः । वृष्टिकर्त्ता च हर्त्ता च सर्व्वकामफलप्रदः ॥ एतानि कुजनामानि प्रातरुत्थाय यः पठेत् । ऋणं न जायते तस्य धनमाप्नोति पुष्कलम् ॥ रक्तपुष्पैश्च गन्धैश्च धूपदीपादिभिस्तथा । मङ्गलं पूजयेद्भक्त्या मङ्गलेऽहनि सर्व्वदा ॥ ऋणरेखाः प्रकर्त्तव्या अङ्गारेण सदा बुधैः । प्रोञ्छयेद्वामपादेन ऋणं तस्य विनश्यति ॥ मङ्गलाय नमस्तुभ्यं नमस्ते ऋणहारिणे । पुत्त्रपौत्त्रप्रदात्रे च मङ्गलाय नमो नमः ॥ ऋणार्थे त्वत्प्रपन्नोऽहमऋणं कुरु मे विभो ! । एतत् कृत्वा न सन्देहो ऋणं हत्वा धनी भवेत् । इति स्कन्दपुराणम् ॥ * ॥
मङ्गलवारे जातस्य फलं यथा, —
“उग्रः प्रतापी क्षितिपालमन्त्री रणप्रियो वक्रवचाः सरोषः । सत्त्वान्वितः शूरगणप्रणेता कुजस्य वारे प्रभवो मनुष्यः ॥” इति कोष्ठीप्रदीपः ॥