वाचस्पत्यम्
मङ्गल्या || स्त्री मङ्गलाय हिता यत् । १ मल्लिकागन्धयुक्ता- गुरुणि अमरः २ रोचनायाम् ३ अवाक्पुष्प्याम् ४ शम्यां २ शुक्लवचायां मेदि० ६ प्रियङ्गौ ७ माषपर्ण्यां हेमच० ८ शतपुष्प्याम् ९ जीवन्त्याम् १० ऋद्धिनामौषधौ ११ हरिद्रायां १२ दूर्वायां राजनि० १३ दुर्गायाञ्च स्त्री रत्नमा० । “मङ्गल्याऽगुरुशिशिरा गन्धाणा दोषवाहिका” राजनि०
शब्दकल्पद्रुमः
मङ्गल्या || स्त्री (मङ्गलाय साधुरिति यत् । टाप् ।)
मल्लिकागन्धयुक्तागुरु । इत्यमरः । २ । ६ । १२७ ॥ शमी । अधःपुष्पी । मिसी । शुक्लवचा । रोचना । इति मेदिनी । ये, १०० ॥ प्रियङ्गुः । शङ्खपुष्पी । इति हेमचन्द्रः ॥ माषपर्णी । जीवन्ती । ऋद्धिः । वचा । हरिद्रा । चीडा । इति राजनिर्घण्टः ॥ दूर्व्वा । इति रत्नमाला ॥ दुर्गा । यथा, —
“शोभनानि च श्रेष्ठानि या देवी ददते हरे । भक्तानामार्त्तिहरणी मङ्गल्या तेन सा स्मृता ॥” इति देवीपुराणे ४४ अध्यायः ॥ (वचार्थे पर्य्यायो यथा, —
“तीक्ष्णोग्रगन्धा जटिला मङ्गल्या विजया वचा । षड्ग्रन्थोग्रा च रक्षोघ्नी सिता हैमवती तु सा ॥” मिस्यर्थे यथा, —
“अवाक्पुष्पी च छत्रा स्यान्मङ्गल्या मधुरा मिसी ॥” हेमपुष्पी । तत्पर्य्यायो यथा, —
“अवाक्पुष्पी त्वधःपुष्पी मङ्गल्यामरपुष्पिका ॥” इति च वैद्यकरत्नमालायाम् ॥ रोचनार्थे पर्य्यायो यथा, —
“गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना ।” शम्यर्थे पर्य्यायो यथा, —
“शमी शक्तुफला तुङ्गा केशहन्त्री फला शिवा । मङ्गल्या च तथा लक्ष्मीः शमीरः साल्पिका स्मृता ॥” मसूरः । तत्पर्य्यायो यथा, —
“मङ्गल्यको मसूरः स्यान्मङ्गल्या च मसूरिका ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)