वाचस्पत्यम्
मचर्चिका || स्त्री चर्च—धात्वर्थनिर्देशे ण्वुल् मस्य शम्भोरिव चर्चिका ध्यानम् । प्रशस्ते अमरः अव्युत्पन्नोऽयमित्येके “मतल्लिकादयो नियतलिङ्गा न तु विशिष्यनिघ्नाः” सि० कौ० “प्रशंसावचनैश्च” पा० अस्य विशेषणत्वेऽपि परनिपातः गोमचर्चिका गोतमल्लिका इत्यादि ।
शब्दकल्पद्रुमः
मचर्च्चिका || स्त्री (मं शभुं चर्च्चतीवेति । चर्च्च् + ण्वुल् । टाप् । अत इत्वम् । वस्तुतस्तु रूढोऽयं शब्दः ।)
प्रशस्तम् । इत्यमरः । १ । ४ । २७ ॥ (यथा, प्रशस्तो ब्राह्मणो ब्राह्मणमचर्च्चिका । “प्रशंसा- वचनैश्च । २ । १ । ६६ । इति समासः ।)