वाचस्पत्यम्
मज्जा || स्त्री मस्ज—अच् टाप् । १ अस्थिसारे २ वृक्षादेः सारांशे च हेम० । “भल्लातकी मूलकशिग्रुसिद्धैः प्रियालमल्ला- सहितैः” सुश्रुतः ।
शब्दकल्पद्रुमः
मज्जा || स्त्री (मज्जतीति । मस्ज् + अच् । अजादित्वात् टाप् ।)
अस्थिसारः । इत्यमर- टीकायां भरतः ॥ अस्य गुणाः । वातनाशि- त्वम् । बलपित्तकफप्रदत्वम् । मांसतुल्यगन्धरूप- त्वञ्च । कुम्भीरमहिषमज्जागुणाः । मधुरत्वम् । बृंहणत्वम् । बल्यत्वञ्च । मज्जसत्त्वगुणौ यथा । शैत्यम् । उष्णत्वञ्च । इति राजवल्लभः ॥