वाचस्पत्यम्
मज्जारस || मज्जायाः रसः परिपाकः । शुक्रे राजनि० । तस्य मज्जासम्भवत्वं मज्जकृच्छब्दे उक्तम् ।
शब्दकल्पद्रुमः
मज्जारसः || पुं, (मज्जाया रसः ।) शुक्रम् । इति राजनिर्घण्टः ॥