संस्कृत-शब्दकोशः

मञ्जिफला मञ्जिष्ठामेह

मञ्जिष्ठा

वाचस्पत्यम्

मञ्जिष्ठा ||‍ स्त्री अतिशयेन मञ्जीमती इष्ठन् मतुपो लोपः । स्वनामख्यातायां लतायाम् अमरः । “मञ्जिष्ठा मधुरा तिक्ता कषाया स्वर्णवर्णकृत् । गुरूष्णा विषश्लेष्मघ्नी शोथयोन्यक्षिकर्णरुक् । रक्तातीसारकुष्ठास्रविसर्पव्रण- मेहनुत्” भावप्र० । मञ्जिष्ठया रक्तम् अण । माञ्जिष्ठ तत्क्वाथेन रक्ते त्रि० ।


शब्दकल्पद्रुमः

मञ्जिष्ठा || स्त्री (अतिशयेनेयं मञ्जिमती । मञ्जि- मती + इष्ठः । मतुपो लोपः स्त्रियां टाप् ।)
स्वनामख्यातरक्तवर्णलताविशेषः । मजीठ इति हिन्दी भाषा । तत्पर्य्यायः । विकसा २ जिङ्गी ३ समङ्गा ४ कालमेषिका ५ मण्डूक- पर्णी ६ भण्डीरी ७ भण्डी ८ योजनवल्ली ९ । इत्यमरः । २ । ४ । ९० ॥ कालमेषी १० काला ११ जिङ्गिः १२ भण्डिरी १३ भण्डिका १४ भण्डिः १५ । इति शब्दरत्नावली ॥ हरिणी १६ रक्ता १७ गौरी १८ योजनवल्लिका १९ वप्रा २० रोहिणी २१ चित्रलता २२ चित्रा २३ चित्राङ्गी २४ जननी २५ विजया २६ मञ्जूषा २७ रक्तयष्टिका २८ क्षत्त्रिणी २९ रागाढ्या ३० कालभाण्डिका ३१ अरुणा ३२ ज्वरहन्त्री ३३ छत्रा ३४ नागकुमारिका ३५ भण्डीरलतिका ३६ रागाङ्गी ३७ वस्त्रभूषणा ३८ । (पर्य्या- यान्तरं यथा, —
“मञ्जिष्ठा विकसा जिङ्गी काला योजनपर्ण्यीप । ताम्रवल्ली चित्रपर्णी कान्तारी रक्तयष्टिका ॥” इति रत्नमाला ॥)
अस्या गुणाः । मधुरत्वम् । कषायत्वम् । उष्ण- त्वम् । गुरुत्वम् । व्रणमेहज्वरश्लेष्मविषनेत्रामय- नाशित्वञ्च । सा चतुर्व्विधा । चोलः १ योजनी २ कौन्ती ३ सिंहली च ४ । इति राजनिर्घण्टः ॥ कुष्ठस्वरभङ्गशोथनाशित्वम् । वर्णाग्निकारित्वञ्च । इति राजवल्लभः ॥ अपि च । “मञ्जिष्ठा मधुरा तिक्ता कषाया स्वर्णवर्णकृत् । गुरूष्णा विषश्लेष्मघ्नी शोथयोन्यक्षिकर्णरुक् । रक्तातिसारकुष्ठास्राविसर्पव्रणमेहनुत् ॥” इति भावप्रकाशः ॥



Correction: