वाचस्पत्यम्
मञ्जुल || त्रि० मन्ज—सिध्मा० लच् मजि—उलच् वा । १ मनो हरे २ निकुञ्जे मेदि० ३ शबले न० विश्वः । ४ जसरष्ठणगे पुंस्त्री० मेदि० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
मञ्जुलं || क्ली (मञ्जु मञ्जुत्वमस्त्यस्येति । “सिध्मा- दिभ्यश्च ।” ५ । २ । ९७ । इति मञ्जुशब्दात् लच् ।)
जलाञ्चलम् । निकुञ्जम् । इति मेदिनी । ले, १ । २२ । ॥ शबलः । इति विश्वः ॥
शब्दकल्पद्रुमः
मञ्जुलः || पुं, (मञ्जु मञ्जुत्वमस्यास्तीति । मञ्जु + सिध्मादित्वात् लच् ।)
जलरङ्कपक्षी । इति मेदिनी । १ । २२ ॥ सुन्दरे त्रि । इत्यमरः । ३ । १ । ५२ ॥ (यथा, कालिकापुराणे ४८ अध्याये । “मञ्जुलं यौवनोद्भेदं प्राप श्रीरिव माधवे ।” नदीभेदे स्त्री । यथा, महाभारते । ६ । ९ । ३४ । “चित्रोपलां चित्ररथां मञ्जुलां वाहिनीं तथा ॥”)