मड
मडर
मडक
वाचस्पत्यम्
मडक || पु० मडि—क्वुन् पृषो० नलोपः । धान्यभेदे (मेडुया) जटा० ।
शब्दकल्पद्रुमः
मडकः || पु, (मण्डयति भूषयति क्षेत्रमिति । मडि + “क्वुन् शिल्पिसंज्ञयोरपूर्ब्बस्यापि ।” उणा० २ । ३२ । इति क्वुन् । पृषोदरादित्वान्नलोपः ।)
शस्यभेदः । मेडुया इति भाषा । इति जटा- धरः ॥