संस्कृत-शब्दकोशः

मडार मड्डुक

मड्डु

वाचस्पत्यम्

मड्डु ||‍ पु० मज्जन्ति अन्ये शब्दा अत्र मस्ज + उन् पृषो० । वाद्यभेदे अमरः स्वार्थे क मड्डुक तत्रार्थे । मड्डुक- स्तवादनं शिल्पमस्य वा ठक् पक्षे अण् । माड्डुकिक- माड्डुक तद्वादनशिल्पयुते त्रि० ।


शब्दकल्पद्रुमः

मड्डुः || पुं, वाद्यविशेषः । इत्यमरः । १ । ७ । ८ ॥ चुचूक इति ख्यातः । विपुलो डमरुर्मंड्डु- रिति कोषः ॥ मड् इति रौति इति मड्डुः पूर्ब्बवद्रौतेर्डु मनीषादित्वाद्रेपस्य डत्वम् । मज्जन्ति शब्दा अत्रेति मज्जेर्निपातो वा । इति भरतः ॥



Correction: