संस्कृत-शब्दकोशः

मणिकर्णिका मणिकर्णेश्वर

मणिकर्णीश्वर

वाचस्पत्यम्

मणिकर्णीश्वर ||‍ न० काशीस्थे शिवलिङ्गभेदे काशीख० १०० अ०


शब्दकल्पद्रुमः

मणिकर्णीश्वरः || पुं, (मणिकर्ण्या मणिकर्ण्यां वा ईश्वरः ।)
काशीस्थशिवलिङ्गविशेषः । यथा, —
“ओङ्कारं प्रथमं पश्येत् मत्स्योदर्य्यां कृतो- दकः । त्रिपिष्टपसहादेवं ततो वै कृत्तिवाससम् ॥ रत्नेशञ्चाथ चन्द्रेशं केदारञ्च ततो व्रजेत् । धर्म्मेश्वरञ्च वीरेशं गच्छेत् कामेश्वरं ततः ॥ विश्वकर्म्मेश्वरञ्चाथ मणिकर्णीश्वरं ततः । अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्च्चयेत् ॥ एषा यात्रा प्रयत्नेन कर्त्तव्या क्षेत्रवासिभिः ।” इति काशीखण्डे १०० अध्यायः ॥ मणिकर्णेश्वरः, पुं, (मणिकर्णस्तदाख्य ईश्वरः ।)
कामरूपस्थशिवलिङ्गविशेषः । यथा, —
“सर्व्वतीर्थजले स्नात्वा स्पृष्ट्वा चन्द्रं सवासवम् । मणिकर्णेश्वरं दृष्ट्वा मुक्तिर्भस्माचलं गते ॥” इति कालिकापुराणे ८१ अध्यायः ॥



Correction: