संस्कृत-शब्दकोशः

मणिनाग मणिपालि

मणिपर्वत

वाचस्पत्यम्

मणिपर्वत ||‍ वृ० मणिप्रचुरः पर्वतः शा० त० । पर्वतभेदे हरिवं० १५८ अ० ।


शब्दकल्पद्रुमः

मणिपर्व्वतः || पुं, (मणीनां पर्व्वतः ।)
गिरि- विशेषः । यथा, —
“ततोऽभ्ययाद्गिरिश्रेष्ठमभितो मणिपर्व्वतम् । तत्र पुण्या ववुर्वाता ह्यभवंश्चामलाः प्रभाः ॥ मणीनां हेमवर्णानामभिभूय दिवाकरम् । तत्र वैदूर्य्यवर्णानि ददर्श मधुसूदनः ॥ सतोरणपताकानि द्वाराणि शिखराणि च । विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्व्वतः ॥ हेमचित्रवितानैश्च प्रासादैरुपशोभितः । तत्र ता हेमवर्णाभा ददर्श मधुसूदनः ॥ गन्धर्व्वासुरमुख्यानां प्रिया दुहितरस्तथा । ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे ॥ नरकेण समानीता रक्ष्यमाणाः समन्ततः ॥” इति महाभारते हरिवंशे नरकवधाध्यायः ॥



Correction: